वांछित मन्त्र चुनें

सने॑मि॒ त्वम॒स्मदाँ अदे॑वं॒ कं चि॑द॒त्रिण॑म् । सा॒ह्वाँ इ॑न्दो॒ परि॒ बाधो॒ अप॑ द्व॒युम् ॥

अंग्रेज़ी लिप्यंतरण

sanemi tvam asmad ām̐ adevaṁ kaṁ cid atriṇam | sāhvām̐ indo pari bādho apa dvayum ||

पद पाठ

सने॑मि । त्वम् । अ॒स्मत् । आ । अदे॑वम् । कम् । चि॒त् । अ॒त्रिण॑म् । सा॒ह्वान् । इ॒न्दो॒ इति॑ । परि॑ । बाधः॑ । अप॑ । द्व॒युम् ॥ ९.१०५.६

ऋग्वेद » मण्डल:9» सूक्त:105» मन्त्र:6 | अष्टक:7» अध्याय:5» वर्ग:8» मन्त्र:6 | मण्डल:9» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (त्वम्) आप (सनेमि) हम पर ऐसी कृपा करें, जिससे (अदेवम्) जो अदैवी सम्पत्ति का पुरुष है, (अत्रिणम्) जो हिंसक है, (आ) और जो (द्वयुम्) सत्यानृतरूपी माया युक्त है, ऐसे (कञ्चित्, साह्वान्) सब शत्रु जो कई एक हैं, (बाधः) हमको पीड़ा देनेवाले हैं, उनको (अस्मत्) हमसे (परिजहि) दूर करें ॥६॥
भावार्थभाषाः - परमात्मा मायावी पुरुषों से अपने भक्तों की रक्षा अवश्यमेव करता है अर्थात् परमात्मा के सामने मायावी पुरुषों की माया और दम्भियों का दम्भ कदापि नहीं चलता ॥६॥ यह १०५ वाँ सूक्त और आठवाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे भगवन् ! (त्वम्) भवान् (सनेमि) अस्मासु ईदृशीं कृपां करोतु यया (अदेवम्) दिव्यसम्पद्रहितं (अत्रिणम्) हिंसकं (आ) अथ च (द्वयुम्) सत्यानृतरूपमायया युक्तं (कञ्चित्, साह्वान्) कतिपयान् शत्रून् (बाधः) बाधकान् (अस्मत्) अस्मत्तः (परिजहि) अपसारयतु ॥६॥ इति पञ्चोत्तरशततमं सूक्तं अष्टमो वर्गश्च समाप्तः ॥